अथ युक्तिषष्टिकारिका नाम
मञ्जुश्रिकुमारभुताय नमः
भावाभावव्यतिक्रान्ता मतिर्येषामनाश्रिता।
तैर्गम्भीरो निरलम्बः प्रत्ययार्थः प्रतीयते॥१
भावो यदि भवेत्सत्य् यथा बालैर्विकल्पितः।
विमोक्षस्तदभावेन को नेच्छेत् किम् न कार्नात्॥३
निर्वाणम् चैव लोकं च मन्यन्ते तत्त्वदर्शिनः।
नैव लोकं न निर्वानं मन्यन्ते तत्त्वदर्शिनः॥५
सम्भवविभवे भावे निरोधः कल्पितो यथा।
मायाकृतो निरोधोऽयम् सद्भिस्तथैवमिष्यते॥७
यदि स्कन्धनिरोधेन भवेन्न क्लेशसम्क्षयः।
यदा चायं निरुद्धः स्यात्तदा मोक्षो भविस्यति॥९
एवम् पश्यति धर्मः यो निर्वानम् वा कतम् तथा।
धर्मज्ञानम् परं यत्र भेदस्तु तत्र विद्यते॥११
सम्क्लेसक्षीनभिक्षूणाम् सम्साराच्चेन्निवार्यते।
कुतः सम्पन्नबुद्धैश्च तस्यारम्भो न भाषितः॥१३
समुत्पन्नं कथं पुर्वं पश्चात् पुनर्निवार्यते।
पुर्वापरान्तविहीनो मोक्षः ख्यातिर्मायोपमः॥१५
यथा मरीचिका माया भवम् बुद्धया हि पश्यति।
पुर्वान्तम् वाऽपरान्तम् वा न दृष्टया परिक्लिश्यते॥१७
तदाश्रित्य यदुत्पन्नं नोत्पन्नं स्वयमेवहि।
स्वयम् यदा यदुत्पन्नमुत्पन्नम् नाम तत् कथम्॥१९
न कश्चिदनुत्पन्नम् निरोधोऽपि न वै तथा।
उत्पादभन्गकर्मणाऽभिप्रायार्थः प्रदर्शितः॥२१
यः प्रतीत्यसमुत्पाद उत्पादभङ्गवर्जितम्।
परिजानाति तेनैवनुत्तीर्यत भवाबुधिः॥२३
विवुधैर्भाव्यते भावेह् शुन्योऽनित्योऽनात्मकः।
मोषधर्मचयश्चैव विविक्त इति दृश्यते॥२५
कदलीवसारम् यद्गन्धर्वनगरम् यथा।
मोहपुर्यामिविवन्नौ यो मायावत् पश्यति जगत्। २७
लोकोऽविद्याऽन्धभूतोऽसौ तृष्नास्त्रोतसा चालितः।
तृष्नारहितविज्ञस्य पुण्यदृष्टि समा कुतः॥२९
न जानाति विविक्तार्थ श्रुतिमात्रम् प्रवर्तते।
येषाम् पुण्यमविच्छिन्नमुत्सन्ना इतरे जनाः॥३१
अहम् ममेति कथितम् यथाकर्यवशाज्जनैः।
तथा कार्यवशात् प्रोक्ताः स्कन्धायतनधातवः॥३३
निर्वानम् सत्यमेकम् हि जिनैर्यदभिधीयते।
नाव शिष्टम् तदा सत्यमेवम् विज्ञेन कल्पितम्॥३५
अविद्याप्रत्ययो लोको यस्माद्बुद्धैः प्रकीर्तितः।
विकल्पस्तेन लोकोऽयमिति किम् नोपपद्यते॥३७
हेतुतः सम्भवो यस्य स्थिति र्न प्रत्ययैर्विना।
विगमः प्रत्ययाभावात् सोऽस्तीत्यवगतः कुतः॥३९
बुद्धमार्गे श्रिताः सर्वेऽनित्यमिति वादिनः।
केन वादेन गृह्यन्ते भावाः सन्ति परा इति॥४१
नानुपादाय तैश्चापि लोको वाऽत्माऽभिकाङ्क्षते।
नित्यानित्यादेरूत्पादह् मिथ्यादृष्ट्या तु हारितः॥४३
यान् हि धर्मानुपादाय दृष्टश्चन्द्रो जले यथा।
तत्र सत्यम् मृषा नैव कामं दृष्ट्या न हारितः॥४५
स हेतुः सर्वदृष्टीनाम् क्लेशोत्पत्ति र्न तम् विना।
तस्मात्त्स्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः॥४७
मिथ्याज्ञाने परिभूय योऽसत्ये सत्यधारकः।
परिग्रहो वितर्कादेः क्रमाद्रागक्रिया मता॥४९
यस्मिन्नेव समाश्रितो दष्टः क्लेशविषधरैह्।
चलं वाऽनिष्ठितम् चित्तं न तिष्ठत्यनाश्रितम्॥५१
प्रतिविम्बे यथा रागो लोके च मोहवन्धनात्।
विषयपिन्जरो सक्तो बालो हि सत्यसम्ज्ञया॥५३
रूपासक्ता जना मुढा मध्यमा रागवर्जिताः।
रूपस्वभावविज्ञो यो विमुक्तो बुद्धिमान् परः॥५५
मिथ्याज्ञानभितप्तो यः क्लेशसम्दोषभाग्भावेत्।
भावाभावौ विकल्पनादर्थज्ञानम् न जायते॥५७
येषाम् विविक्तचेतसाम् चलम् चित्तम् चञ्चलम्।
क्लेशसर्पेर्मथितोऽपि तीणोऽखिन्नो भवाम्बुद्धेः॥५९
इति युक्तिषष्टिकारिका समाप्ता।
आर्यनागार्जुनमुखनिः सतम् , शास्त्रमिदं
भोटपण्डितेन लिखितं भोटभाषायमिति॥